top of page

देवीस्तोत्रम् ३ विष्णुनाकृतं (देवीभागवतमहापुराणान्तर्गतम् नमो देव्यै प्रकृत्यै) | Devi stotra 3 by Vishnu

देवीस्तोत्रं विष्णुनाकृतम् 
श्रीभगवानुवाच -
नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः ।
कल्याणै कामदायै च वृद्ध्यै सिद्ध्यै नमो नमः ॥ १॥

सच्चिदानन्दरूपिण्यै संसारारणये नमः ।
पञ्चकृत्यविधात्र्यै ते भुवनेश्यै नमो नमः ॥ २॥

सर्वाधिष्टानरूपायै कूटस्थायै नमो नमः ।
अर्धमात्रार्थभूतायै हृल्लेखायै नमो नमः ॥ ३॥

ज्ञातं मयाऽखिलमिदं त्वयि सन्निविष्टं
     त्वत्तोऽस्य सम्भवलयावपि मातरद्य ।
शक्तिश्च तेऽस्य करणे विततप्रभावा
     ज्ञाताऽधुना सकललोकमयी…
bottom of page